Printfriendly

January 15, 2014

Shri Sankashtnaashan Ganesh Stotra


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये।।१।।

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्।।२।।

Buy Autobiography of a Yogi by Paramhansa Yogananda from Flipkart.com

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्।।३।।

नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।।४।।

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्।।५।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।।६।।

जपेद् गणपति स्तोत्रं षड्भिर्मासैः फलं लभेत्।
संवत्सरेण सिद्दिं च लभते नात्र संशयः।।७।।

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्।
तस्य विध्या भवेत् सर्वा गणेशस्य प्रसादतः।।८।।

।।श्रीनारदपुराणे संकष्टनाशनम् गणेशस्तोत्रं सम्पूर्णम्।। 
Related Posts Plugin for WordPress, Blogger...