किं नु नाम सहस्त्राणि जपते च पुनः पुनः।
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव।।१।।
श्री भगवानुवाच
मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्।
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम्।।२।।
Buy Wisdom of the Rishis: The Three Upanishads, Ishavasya, Kena, Mandukya by Sri M from Flipkart.com
पद्मनाभं सहस्त्राक्षं वनमालिं हलायुधम्।
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम्।।३।।
विश्वरूपं वासुदेवं रामं नारायणं हरिम्।
दामोदरं श्रीधरं च वेदाङ्गं गरुड़ध्वजम्।।४।।
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम्।
गवां कोटिप्रदानस्य अश्वमेधशतस्य च।।५।।
कन्यादानसहस्त्राणां फलं प्राप्नोति मानवः।
अमायां वा पौर्णमास्यामेकादश्यां तथैव च।।६।।
संध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च।
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते।।७।।
।।इति श्री कृष्णार्जुनसंवादे श्री विष्णोरष्टाविंशतिनामस्तोत्रं संपूर्णम।।
No comments:
Post a Comment