बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः।
प्रियंगु कलि श्यामः कं जनेत्रो मनोहरः।।१।।
ग्रहोपमो रोहिणेयो नक्षत्रेशो दयाकरः।
विरुद्ध कार्य हन्ता च सौम्यो बुद्धि विवर्धनः।।२।।
चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञानिनायकः।
ग्रहपीड़ाहरो दारा-पुत्र-धान्यपशुप्रदः।।३।।
लोकप्रियः सौम्यमूर्तिर्गुणदा गुणिवत्सलः।
पंचविंशति नामानि बुधस्यैतानि यः पठेत्।।४।।
स्मृत्त्वा बुधं सदा तस्य पीड़ा सर्वा विनश्यति।
तद्विने वा पठेद्यस्तु लभ्यते स मनोगतम्।।५।।
।।इति श्री बुध पंचविंशति नाम स्तोत्रम् सम्पूर्णम्।।