ईश्वर
ऋषिः, अनुष्टुप्
छन्दः, गुरुर्देवता,
गं
बीजं, श्री
शक्तिः, क्लीं
कीलकं,
बृहस्पति प्रीत्यर्थं जपे
विनियोगः।।
Buy Living With the Himalayan Masters by Swami Rama from Flipkart.com
ध्यानम्
Buy Living With the Himalayan Masters by Swami Rama from Flipkart.com
ध्यानम्
अभीष्टफलदं
वन्दे सर्वज्ञं
सुर पूजितम्।
अक्षमालाधरं
शान्तं प्रणमामि बृहस्पतिं।।
अथ
बृहस्पति कवचम्
बृहस्पतिः
शिरः पातु ललाटं पातु
मे गुरुः।
कर्णो
सुरगुरुः पातु नेत्रे मेsभीष्टदायकः।।१।।
जिव्हां
पातु सुराचार्यो नासां मे
वेदपारगः।
मुखं
मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः।।२।।
भुजा
वाङ्गीरसः पातु करौ पातु शुभप्रदः।
स्तनौ
मे पातु वागीशः कुक्षिं मे शुभलक्षणः।।३।।
नाभिं
देवगुरुः पातु मध्यं पातु सुखप्रदः।
कटिं
पातु जगद्वन्द्य ऊरु मे
पातु वाक्पतिः।।४।।
जानुजङ्घे
सुराचार्यो पादौ विश्र्वात्मकस्तथा।
अन्यानि
यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः।।५।।
फलश्रुतिः
इत्येतत्कवचं दिव्यं
त्रिसन्ध्यं यः पठेन्नरः।
सर्वान्कामानवाप्नोति
सर्वत्र विजयी भवेत्।।