Printfriendly

October 12, 2014

Shri Chaakshushopnishad/ Chaakshushi Vidya/ Chaakshushi Stotra


विनियोगः
ॐ अस्याश्चाक्षुषी विद्याया अहिर्बुध्न्य,
 ऋषिर्गायत्री, छन्दः सूर्यो देवता, 
चक्षूरोगनिवृत्तये विनियोगः।


ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव
मां पाहि पाहि।
त्वरितं चक्षूरोगान् शमय शमय
मम जातरूपं तेजो दर्शय दर्शय।
यथा अहम् अन्धो न स्यां तथा कल्पय कल्पय।
कल्याणं कुरु कुरु।
यानि मम पूर्वजन्मोपार्जितानि चक्षुःप्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूल्य।

ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय।
ॐ नमः करुणाकरायामृताय।
ॐ नमः सूर्याय।
ॐ नमो भगवते सूर्यायाक्षितेजसे नमः
खेचराय नमः
महते नमः
रजसे नमः
तमसे नमः
असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय।
मृत्योर्मा अमृतं गमय
उष्णो भगवाञ्छुचिरूपः।
हंसो भगवान शुचिरप्रतिरूपः।

य इमां चाक्षुष्मती विद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति।
न तस्य कुले अन्धो भवति।
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा विद्यासिद्धिर्भवति।
ॐ नमो भगवते आदित्याय अहोवाहिनी अहोवाहिनी स्वाहा।

।इति श्रीकृष्णयजुर्वेदीया चाक्षुषी विद्या सम्पूर्णं।।


No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...